सूर्यः
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(सूर्य इत्यस्मात् पुनर्निर्दिष्टम्)
सूर्यः/ रविः किञ्चन नक्षत्रं विद्यते । किन्तु ज्योतिष्शास्त्रदृष्ट्या अयं कश्चन ग्रहः इति निर्दिश्यते । खगोलपदार्थेषु सूर्यः अत्यन्तं प्रमुखः अस्ति । तदीयाः किरणाः भूमेः उपरि अन्येषां ग्रहाणाम् उपरि प्रकाशम् उष्णतां च प्रसरन्ति । सूर्यस्य आकर्षणपरिधौ एव अन्येषां ग्रहाणां सञ्चलनं भवति । नित्यजीवनव्यवहारे तस्य प्रभावः अस्ति अनन्यः । सूर्यं विना मानवजीवनस्य कल्पना अपि अशक्या एव । सूर्यस्य व्यासः भवति ८,६५,००० मैल्-परिमितम् । भूमेः विस्तारस्य अपेक्षया १३,००,००० गुणितम् अधिकम् । द्रव्यराशिः भूमेः अपेक्षया ३,३३,००० गुणितम् अधिकम् । अणुप्रक्रियया सूर्ये शक्त्युत्पादनं भवति । सूर्ये प्रचाल्यमानया अनया क्रियया जलजनकः हीलियं-धातुरूपेण परिवर्तिताः भवन्ति इत्यतः द्रव्यराशौ प्रत्येकस्मिन् क्षणे चत्वारि-मिलियन्-टन्-परिमितः भागः न्यूनः भवति । सूर्यः यस्यां वियद्गङ्गायां परिभ्रमति तस्याः केन्द्रभागतः बहु दूरे सीमाप्रदेशे विद्यते । वियद्गङ्गायाः केन्द्रतः सूर्यः ३०,००० ज्योतिर्वर्षाणाम् अन्तरे विद्यते ।
[सम्पादयतु] रविमार्गः
विश्वगोले रविमार्गः इत्येषः किञ्चन बृहद्-वृत्तम् । भूकेन्द्रसिद्धान्तानुगुणं भूमिः विश्वस्य केन्द्रभागे दृश्यते । आकाशे सञ्चरन्तः सर्वे अपि पदार्थाः भूमिं परितः भ्रमन्ति । रविः अपि भूमिं परितः भ्रमति इव पूर्वदिशि उदेति पश्चिमदिशि अस्तङ्गच्छति च । रवेः अयं सञ्चरणमार्गः एव (वस्तुतः अयं रविं परितः भ्रमन्त्याः भूमेः मार्गः) रविमार्गः इति कथ्यते । अयं रविमार्गः विश्वमध्यरेखातः २३ डिग्रिपरिमितं २६ निमेषपरिमितं कोणरूपेण नतः भवति । भूमेः अक्षस्य नमनमेव अस्य कारणम् । भू-अक्ष-रविमार्गयोः सम्बद्धः समतलकोणः रविमार्गस्य वक्रता इति निर्दिश्यते । इयं प्रस्तुतं २३ डिग्रि २६ निमेष २५.२ क्षणपरिमितं च वर्तते ।[सम्पादयतु] रविस्तुतिः
जपाजुसुमसङ्काशं काश्यपेयं महाद्युतिम् ।
तमोरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥
ऋग्वेदे सूर्यमन्त्रः
आ कृष्णेन् रजसा वर्तमानो निवेशयन्न अमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन ॥
सूर्यागमनात् प्राक् जप्यमनः सूर्यमन्त्रः
ॐ भूर्भुवः स्वः कलिंगदेशोद्भव, काश्यप गोत्र रक्त वर्ण भो अर्क, इहागच्छ इह तिष्ठ अर्काय नमः॥
गायत्रीमन्त्रः अपि सूर्यमन्त्रः एव । अगस्त्यमहामुनिः श्रीरामाय उपदिष्टम् आदित्यहृदयं सूर्यस्य एव स्तोत्रम् ।
तमोरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥
ऋग्वेदे सूर्यमन्त्रः
आ कृष्णेन् रजसा वर्तमानो निवेशयन्न अमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन ॥
सूर्यागमनात् प्राक् जप्यमनः सूर्यमन्त्रः
ॐ भूर्भुवः स्वः कलिंगदेशोद्भव, काश्यप गोत्र रक्त वर्ण भो अर्क, इहागच्छ इह तिष्ठ अर्काय नमः॥
गायत्रीमन्त्रः अपि सूर्यमन्त्रः एव । अगस्त्यमहामुनिः श्रीरामाय उपदिष्टम् आदित्यहृदयं सूर्यस्य एव स्तोत्रम् ।
[सम्पादयतु] सूर्यनमस्कारः(योगः)
सनातनपद्धतौ सूर्यस्य आराधना अस्त्येव । योगशास्त्रानुगुणं सूर्यनमस्कारः विशेषयोगासनानां सम्मिलनम् । अस्मिन् सूर्यनमस्कारे दश यौगिकासनानि अन्तर्गच्छन्ति । सूर्यस्य द्वादशनामानि एकैकशः उक्त्वा नमास्कारासनानि कुर्वन्ति चेत् देहारोग्यं मानसिकस्वास्थ्यं वर्धते इति शास्त्रीयं मतम् । एतत् मङ्गलकरम् इत्यपि भारते साधकानां विश्वासः । सूर्यनमस्कारस्य १२मन्त्राः यथा...- ॐ मित्राय नमः
- ॐ रवये नमः
- ॐ सूर्याय नमः
- ॐ भानवे नमः
- ॐ खगय नमः
- ॐ पुष्णे नमः
- ॐ हिरण्यगर्भाय नमः
- ॐ मारिचाये नमः
- ॐ आदित्याय नमः
- ॐ सावित्रे नमः
- ॐ अर्काय नमः
- ॐ भास्कराय
No comments:
Post a Comment